|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.58. अध्यायः 058
Mahabharata - Karna Parva - Chapter Topics
अर्जुनस्य द्रौणिग्रस्तधृष्टद्युम्नरक्षणपूर्वकं द्रौणिं निर्जित्य संशप्तकान्प्रति गमनम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-58-0x(4981)(57893)
एवमुक्तः प्रत्युवाच धृष्टद्युम्नः प्रतापवान्।
आशिषं तां प्रवक्तव्यां मामको दास्यते तव॥ 8-58-1(57894)
येनैव ते पितुर्दत्ता यतमानस्य संयुगे।
एष ते प्रतिवाक्यं वै असिर्दास्यति मामकः।
येन कृत्तं तव पितुर्यतमानस्य तच्छिरः॥ 8-58-2(57895)
यदि तावन्मया द्रोणो निहतो ब्राह्मणब्रुवः।
त्वामिदानीं कथं युद्धे न हनिष्यामि किल्बिषम्॥ 8-58-3(57896)
एवमुक्त्वा महातेजाः सेनापतिररिन्दमः।
सुतीक्ष्णेनाथ भल्लेन द्रौणिं विव्याध पार्षतः॥ 8-58-4(57897)
ततो द्रौणिः सुसङ्क्रुद्धः शरैः सन्नतपर्वभिः।
आच्छादयद्दिशो राजन्धृष्टद्युम्नस्य संयुगे॥ 8-58-5(57898)
नैवान्तरिक्षं न दिशो नापि योधाः सहस्रशः।
दृश्यन्ते वै महाराज शरैश्छन्नाः समन्ततः।
एकः सन्वारयामास प्रेक्षणीयः समन्ततः॥ 8-58-6(57899)
तथैव पार्षतो राजन्द्रौणिमाहवशोभिनम्।
शरैः सञ्छादयामास सूतपुत्रस्य पश्यतः॥ 8-58-7(57900)
राधेयोऽपि महाराज पाञ्चालान्सह पाण्डवैः।
द्रौपदेया युधामन्युमुत्तमौजसमेव च॥ 8-58-8(57901)
सात्यकिश्च महाराज योधांश्चान्यान्सहस्रशः।
एकस्तान्वारयामास प्रेक्षणीयः समन्ततः॥ 8-58-9(57902)
धृष्टद्युम्नस्तु समरे द्रौणेश्चिच्छेद कार्मुकम्।
क्षुरप्रेण सुतीक्ष्णेन पश्यतां सर्वयोधिनाम्॥ 8-58-10(57903)
तदपास्य धनुश्छिन्नमन्यदादत्त कार्मुकम्।
वेगवत्समरे घोरं शरांश्चाशीविषोपमान्॥ 8-58-11(57904)
स पार्षतस्य राजेन्द्र धनुः शक्तिं गदां ध्वजम्।
हयान्सूतं रथं चैव निमेषाद्व्यधमच्छरैः॥ 8-58-12(57905)
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः।
खङ्गमादत्त विपुलं शतचन्द्रं च भानुमत्॥ 8-58-13(57906)
द्रौणिस्तदपि राजेन्द्र भल्लैः क्षिप्रं महारथः।
चिच्छेद समरे वीरः क्षिप्रहस्तो दृढायुधः॥ 8-58-14(57907)
रथादनवरूढस्य धन्विनो बाहुशालिनः।
पश्यतां सर्वसैन्यानां तदद्भुतमिवाभवत्॥ 8-58-15(57908)
धृष्टद्युम्नं तु विरथं हताश्वरथसारथिम्।
शस्त्रैश्च बहुधा विद्धमस्त्रैश्च शकलीकृतम्।
नातरद्भरतश्रेष्ठ यदमानो महारथः॥ 8-58-16(57909)
तस्यान्तमिषुभी राजन्यदा द्रौणिर्न गच्छति।
अथ त्यक्त्वा रथं वीरः पार्षतं त्वरितोऽन्वगात्।
प्रगृह्य विपुलं खह्गं जातरूपपरिष्कृतम्॥ 8-58-17(57910)
तस्य सम्पततो राजन्वपुरासीन्महात्मनः।
गरुडस्येव ततो जिघृक्षोः पन्नगोत्तमम्॥ 8-58-18(57911)
एतस्मिन्नेव काले तु केशवः परवीरहा।
अब्रवीद्भरतश्रेष्ठमर्जुनं जयतां वरम्॥ 8-58-19(57912)
पश्य द्रौणिं पार्षतस्य यतमानं वधं प्रति।
यत्नं करोति विपुलं हन्याच्चैनं न संशयः॥ 8-58-20(57913)
त्रायस्वैनं महाबाहो पार्षतं युद्धदुर्मदम्।
द्रौणेरास्यगतं वीर मृत्योरास्यगतं यथा॥ 8-58-21(57914)
एवमुक्त्वा महाराज वासुदेवः प्रतापवान्।
प्रैषयत्तुरगान्यत्र द्रौणिर्वीरो व्यवस्थितः॥ 8-58-22(57915)
ते हयाश्चन्द्रसङ्काशाः केशवेन प्रचोदिताः।
पिबन्त इव चाकाशं जग्मुद्रौणेर्महारथम्॥ 8-58-23(57916)
दृष्ट्वा द्रौणिर्महाराज वासुदेवधनंजयौ।
धृष्टद्युम्नवधे राजंश्चक्रे यत्नं महाबलः॥ 8-58-24(57917)
विकृष्यमाणं दृष्ट्वै धृष्टद्युम्नं जनेश्वर।
शरांश्चिक्षेप वै पार्थो द्रौणिं प्रति महारथः॥ 8-58-25(57918)
ते शरा हेमविकृता गाण्डीवप्रेषिता भृशम्।
द्रौणिमासाद्य विविशुर्वल्मीकमिव पन्नगाः॥ 8-58-26(57919)
विद्धस्तु तैः शरैर्घोरैद्रोणपुत्रः प्रतापवान्।
उत्सृज्य समरे राजन्पाञ्चालममितौजसम्॥ 8-58-27(57920)
आरुरोह रथं वीरो धनञ्जयशरार्दितः।
प्रगृह्य च धनुः श्रेष्ठं पार्थं विव्याध सायकैः॥ 8-58-28(57921)
एतस्मिन्नन्तरे शूरः सहदेवो जनाधिप।
अपोवाह रथेनाजौ पार्षतं शत्रुतापनम्॥ 8-58-29(57922)
अर्जुनोऽपि महाराज द्रौणिं विव्याध पत्रिभिः।
तं द्रोणपुत्रः संरब्धो बाह्वोरुरसि चार्पयत्॥ 8-58-30(57923)
क्रोधितस्तु रणे पार्थो नाराचं कालसन्निभम्।
द्रोणपुत्राय चिक्षेप यमदण्डमिवापरम्॥ 8-58-31(57924)
स ब्राह्मणस्यांसदेशे निपपात महाद्युतेः।
स विह्वलो महाराज शरवेगेन संयुगे।
निषसाद रथोपस्थे वैक्लव्यं परमं ययौ॥ 8-58-32(57925)
तं तु मत्वा हतं वीरं सारथिः शत्रुकर्शनम्।
अपोवाह रणेनाजौ त्वरमाणो रणाजिरात्॥ 8-58-33(57926)
अथोद्धृष्टं महाराज पाञ्चालैर्जितकाशिभिः।
मोक्षितं पार्षतं दृष्ट्वा द्रोणपुत्रं च पीडितम्॥ 8-58-34(57927)
वादित्राणि च दिव्यानि प्रावाद्यन्त सहस्रशः।
सिंहनादश्च सञ्जज्ञे दृष्ट्वा युद्धं तदद्भुतम्॥ 8-58-35(57928)
ततः कर्णो महाराज व्याक्षिपद्विजयं धनुः।
दृष्ट्वार्जुनं रणे क्रुद्धः प्रेक्षते च मुहुर्मुहुः।
द्वैरथं चापि पार्थेन गन्तुकामो महाद्युतिः॥ 8-58-36(57929)
एवं कृत्वाऽब्रवीत्पार्थो वासुदेवं धनञ्जयः।
याहि संशप्तकान्कृष्ण कार्यमेतत्परं मम॥ 8-58-37(57930)
ततः प्रयातो गोविन्दः श्रुत्वा पाण्डवभाषितम्।
रथेनातिपताकेन मनोमारुतरंहसा॥ 8-58-38(57931)
एवमेष क्षयो वृत्तः पृथिव्यां पृथिवीपते।
तावकानां परेषां च राजन्दुर्मन्त्रिते तव॥ ॥ 8-58-39(57932)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे अष्टपञ्चाशोऽध्यायः॥ 58 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|